SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ २८६६ कण्वस्मृतिः मेषादीनामनेनैव नक्षत्रम्य च सर्वदा । प्रभेदोक्तौ न दोषोऽस्ति तेन तेषां कदाचन ॥६४॥ उक्तिरावश्यकी नेति संकल्पे श्रुतिराह हि । तस्मादब्दमृतु मासं पक्षं तस्य तिथिं शिवाम् ॥६५॥ संकल्पे ह्यत्यजन्सर्वान्प्रवदेत्सर्वकर्मसु ।। एतेषामन्यथोक्तौ चेत्संकल्पे तच्च कर्म वै ॥६६॥ नष्टमेव प्रभवति तेन तच्च पुनश्चरेत् । अन्यथा दोषमाप्नोति नात्रकार्या विचारणा ॥६७।। श्रुतिस्मृत्युदितं कर्म विहितं वैदिकस्य यत् । तदुक्त नैव मार्गेण कर्तव्यं नान्यथा चरेत् ॥६॥ यदि प्रमादेन कृतमन्यथा शास्त्रवर्त्मनः। तस्यतदोषशान्त्यर्थं सद्यश्चित्तं श्रुतीरितम् ॥६॥ स्मृत्युक्त वाथ सूत्रोक्त पुराणोक्तमथापि वा । समाचरेद्विधानेन भक्तिश्रद्धापुरस्सरम् ॥७॥ कृतमात्रे तु तस्मिन्वै प्रायश्चित्ते तक्षणात्ततः । तदोषो विलयं याति तेनायं स्यात्कृती शुचिः ॥७१॥ भवेदेव न संदेहो न चेद्दोषोऽभिवर्तते । कालेन महता भूयो दृषत्सु वटबीजवत् ॥७२॥ तस्माद्दोषं समुत्पन्नं सद्यएव प्रशामयेत् । बाडवः प्रातरुत्थाय स्मरेदीश्वरमव्ययम् ॥७३॥ पादौ प्रक्षाल्य गण्डूषं कृत्वाऽऽचम्य विधानतः । सप्तर्षीनपि मैनाकं मेरु मन्दरपर्वतम् ॥७४।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy