SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २८६२ कण्वस्मृतिः जम्बूद्वीपं भारतस्य वर्ष भारतखण्डकम् । सर्वसाधारणाम्प्रोक्तमिदं संकल्पमात्रके ॥२०॥ यस्मिन्देशे स्थितो मर्त्यस्तं देशं स्वगृहावधि । समुच्चरेत्पैतृकेषु नान्यत्रैवं विदुर्बुधाः ॥२१॥ गण्डक्या अपि गङ्गाया नर्मदायास्तथैव च। गोदावर्याश्चकृष्णायाः कावेर्याश्चततः परम् ॥२२॥ ताम्रपाश्चसेतोश्चमध्यभागं पठेद्धि सः। कालं पराधं प्रथमं कल्पं मन्वन्तरं युगम् ॥२३।। तत्पादं संवत्सरं मासमृतु पक्षं तिथिं ततः । क्रमाद्वरेणसंयुक्तं समुच्चार्य च तादृशे ॥२४॥ सप्तम्यन्तेन च तिथौ करिष्यामीति कर्मणः । नामोच्चार्य वदेदेवमेतत्सङ्कल्पमुच्यते ॥२॥ संवत्सरऋतुर्मासोयुगः पक्षस्तिथिस्तथा। त एते कालभेदाःस्युश्चन्द्रगत्यासमुद्भवाः ॥२६।। यावत्कलाश्चन्द्रस्य प्रथमायावदीरिता । वृद्धिक्षयौयावत्तुप्रथमेत्युच्यतेवुधैः ॥२७॥ एवं सर्वेऽपि तिथयो ज्ञेयाः पञ्चदशापि वै । सुरपीतत्यचन्द्रस्य कलावृद्धिक्षयौ स्मृतौ ॥२८|| घटिकापष्टिसाध्या हि प्रकृत्याथापि तत्परं । अतिवृद्धिक्षयसमगतिभेदैस्तत्तत्तदातदा ॥१॥ यामार्धयामघटिकाद्वित्रिपञ्चक्षणादयः । व्यवस्थारहिताश्चस्युस्तिथ्यादीनां निशापतेः ॥३०॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy