________________
धर्मकर्त्तव्यवर्णनम् २८६१ क्रिया कर्ता कारयिता कारणं तत्फलं हरिः । सर्वमीश्वरमेवेति बुद्धिर्यस्य सदास्थिरा ॥६॥ स एव कृतकृत्यो हि सतु ज्ञानस्य भाजनम् । तत्कृतस्य च कार्यस्य वैगुण्यं नैव जायते ॥१०॥ कदाचिदपि केनापि नात्र कार्या विचारणा । यत्किंचिद्वा कृतं तेन पारमेश्वरतुष्टये ॥११|| तदक्षयममोघं स्यादब्रह्मज्ञानैकसाधकम् । यथाशास्त्रकृतं च स्यादशास्त्रकृतमप्यलम् ॥१२।। परमेश्वरतुष्टयर्थकृतं तस्मात्तथा चरेत् । तस्मादमू (गु) सर्वत्र परमेश्वरतुष्टये ॥१३।। करिष्ये कर्मचेत्युक्त्वा सर्वकर्माण्युपक्रमेत् । परमेश्वरशब्दयेत्यकत्वान्यंशब्दमुत्तमम् ॥१४॥ कर्मादिषु प्रकुर्वन्ति तानि वैगुण्यमाप्नुयुः । सद्यएव न संदेहस्तस्मात्तं तादृशश्शिवः ॥१।। परमेश्वरशब्दं ये कर्मादिषुसमाहितः। प्रवदेव दिकैः सिद्धिः ब्रह्मशब्दोऽथवा सदा ॥१६॥ श्रीशब्दपूर्वको नित्यं तावन्मात्रेण साक्रिया। . सम्यक्कृता दोषशून्या सर्वलक्षणभूषिता ॥१७॥ सर्वाङ्गोपाङ्गसहिता सर्वमन्त्रकृता भवेत् । देशःकालश्च वक्तव्यः कर्मादौ प्रत्यहं द्विजैः ॥१८।। तत्र देशाखिलानां च मेरुदक्षिणभागगः । षट्पञ्चाशत्प्रभेदेन कथितस्तं तथा वदेत् ॥१६।।