________________
॥ श्री:
* कण्वस्मृतिः *
धर्मसारवर्णनम् कण्वं नत्वा महाभागं मुनयो ब्रह्मवित्तमाः । युगभेदप्रभेदेन सर्वधर्मान्सनातनान ॥१॥ पप्रच्छुरखिलज्ञप्त्यै लोकानां हितकाम्यया । कण्व वेदविदां श्रेष्ठ सर्वलोकहिताय वै ॥२॥ सर्ववैदिककृत्यानां मुख्यामुख्यगुणागुणम् । प्रविभज्य समासेन सुस्पष्टं कथयस्व नः ॥३॥ मुख्यं कल्पममुख्यं च गौणं काम्यमियत्तमः । एवमेतत्तथा नोचेत्साध्या साध्येचतत्परम् ॥४॥ चित्तंसद्यस्तत्रतत्र संग्रहेणानुविस्तरम् । सुस्पष्टं सुलभं तुल्ययोगयोग्यं तथा वद ॥५॥ इतिपृष्टो ब्रह्मनिष्ठ इदं प्रोवा च तान्प्रति । पृष्ठं भवद्भिः परमं रहस्यं स्वर्गसाधनम् ॥६॥ चित्तशुद्धिकरं ब्रह्म ज्ञानकारणमद्य वै । न शक्यतेऽन्यैरेतद्धिवक्तुं श्रोतु च कैश्चिदु ।। ७ ।। अथापि वः प्रवक्ष्यामि धर्मसारं श्रुतीरितम् । मुख्यामुख्ये विभज्यैव चित्तपूर्व द्विजोत्तमाः ॥८॥