________________
भगवदर्पणबुद्धवजन्मनःसाफल्यवर्णनम् २८५७ तदीयं तक्रियाहं च तवैवेति निगद्यते । अव्यक्तार्थतया तस्य प्रणवस्य विशेषतः ॥६०।। तदर्थद्योतनादेतमुदितं भगवत्पदम् । अन्यत्रापि च तद्दृष्टमित्यनन्यपरं वचः ॥६१॥ वासुदेव ( ? ) इतिदन्तस्य चोपरि। नमः परपदं योगादुपरिस्थपदद्वयम् ॥६२॥ चतुर्थ्यन्तमभून्नित्यं योगिनां योगसिद्धये । ओङ्कारपदमेवैकं योगिनां योगसिद्धये ॥६३।। . द्वादशाक्षररूपेण परिणाममुपागतम् । मन्त्रान्तरेष्वपि बुधा देवतान्तरभागिषु ॥६४।। प्रयुञ्जते तदोङ्कारं मन्त्राणां प्राणसिद्धये । मन्त्रान्तरे प्रयुक्तत्वाद्देवतान्तरगोचरे ॥६५।। अवक्त्रर्थस्तथोङ्कारः केवलेनैव धारकं । पक्कयोगशरीराणामेवं ज्ञानवतामपि ॥६६।। समासन्नेऽपि तज्ज्ञाने तन्मात्रं नैव साधनं । अपक्कयोगज्ञानानामपि वेदविदां नृणाम् ॥६७।। द्वादशाक्षरयोगेन दूरस्थं तदिहान्तिके । स्मृतमात्र महामन्त्रो सुसूक्ष्मे द्वादशाक्षरे ॥६॥ चित्तदर्पणसङ्क्रान्तः ससुखं लक्ष्यते हरिः। अतश्च द्वादशान्तेन स्वाध्यायेन जनार्दनम् ॥६६।। आसन्नतां प्रयात्याशु ब्रह्मण्यर्पितकर्मणां । स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ॥७०।।