________________
२८५८
शाण्डिल्यस्मृतिः स्वाध्याय योगसम्पत्त्या परमात्मा प्रकाशते । पाञ्चेन्द्रियस्य मर्त्यस्य च्छिद्रञ्चे (क)कमिन्द्रिया(म) ॥७१।। ततोऽस्य स्रवति प्रज्ञा (?) तेः पादादिवोदकम् । यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ॥७२।। बुद्धिश्च न विचेष्टेत तमाहुः परमं हितम् । देवानामपि सर्वेषां समानायो जनार्दनः ।।७३।। द्वादशाक्षरमन्त्रोऽयं मन्त्राणां नाथ उच्यते । यथौषधीनाममृतं मणीनां कौस्तुभो यथा ॥४॥ सर्वेषामेव धर्माणां श्रेष्ठो भागवतो विधिः । सर्वधर्मान् समुत्सृज्य पाञ्चकालमनुव्रताः ।।७।। व्यामिश्रयागनिर्मुक्ता गच्छन्ति पुरुषोत्तमम् । व्यामिश्रयाजिनां ब्रह्मणि नर्पिलतसुवृत्तिनाम् ।।७६।। यततामपि वा नित्यं पदमेषां परं स्थितं । अकर्मकर्तृ चैवस्याज्ज्ञानं वा कर्म संभवेत् ।।७७।। कर्मयोगस्तथा वास्याद्योगः कर्मपरं तथा । तस्मात्परमकं शास्त्रं नास्मत्कर्मपरं तथा ।।७।। नास्मात्परमकं ज्ञानं नास्मात्परमकं सुखम् । ऋग्यजुस्सामसंज्ञेषु वेदशब्दः प्रयुज्यते ॥७६।। इदं सदागमाख्यां तु वेदशास्त्र मितीरितम् । इति संक्षेपतः प्रोक्तः सदाचारो यथागमम् ।।८।।