________________
भगवद्भक्तिशीलस्याचारवर्णनम् २८५५ तथा तथा स तन्निष्ठो रमते तत्र तत्र च । अभागवत भागस्था क्षीयते वासना यथा ॥३८॥ तथा यतेत पुरुषो मनोवाकायकर्मभिः । सर्वत्र मैत्री कुर्वीत विवादं नाचरेत्कचित् ॥३६।। न नासाचपलः कर्मी न जिह्वाचपलो भवेत् । अन्येषामिन्द्रियाणां च चापल्यं वर्जयेद् बुधः ॥४०॥ नान्यैरवमतोदह्यान्नान्यभक्तान्समाश्रयेत् ।। अधीतं नोत्सृजेच्छास्त्रं न ब यादनृते कचित् ।।४।। शपथं नाचरेत्पादं संस्पृश्य गुरुदेवयोः।। वाचि कर्मणि चित्ते च सर्वदा यश्शुचिर्भवेत् ॥४२॥ अतन्द्रितश्च शास्त्रार्थे योगसिद्धिं स गच्छति । अनुद्वणच्छत्र वासा नियतासनभोजनः ॥४३।। अनुद्धतजनैर्युक्तो योगसिद्धिं स गच्छति । नक्त न संचरेद्योगी संचरेद्यदि दण्डवृक् ।।४४।। ससहायस्सावकाशः संचरेत्कार्यगौरवात् । कूपं च वृक्षमूलं च सभावासं रिपोहम् ।।४।। शून्यायतनमेवापि न पश्येन्नक्तमञ्जसा । नक्तमुक्त वक्तव्यं विवादं न स्मरेद्बुधः ।।४६।। निष्प्रदीपे न भुञ्जीत विशेषान्निवृते पुनः । प्राग्रात्रो ( ? ) मास्थाय भुक्त्वा च मितमत्वरः ।।४७।। प्रोक्षितं सपवित्राद्भिराविशच्चयनोत्तमम् । यावन्निद्रा समभ्येति तावद्धि मनसा जपेत् ।।१८।।