SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ शाण्डिल्यस्मृतिः निबद्धयते तन्निमूलं पारतद्रवबिन्दुवत् । अस्थिरे मनसि स्रोतो विषयाने(व) य(धा)वति ॥२७॥ मनस्तदाहदं मुग्धं रमते सत्प्रवृत्तिभिः ।। नियोज्य सक्रियास्वेव खानि बद्ध परे मनः ।।२८।। रमते तत्परेणैव स्वाधीना ( ? ) गुणं(:सद्) सुखम् । सम्यक् सद्विषयेष्वेव निवृत्तैरिन्द्रियैर्मनः ॥२६॥ सत्त्वं ब्रह्मणि कालेन निष्ठितैरेव तिष्ठति । यदा तु भगवत्पादसरसीरुहयोर्मनः ॥३०॥ निश्चलं रमते चित्तं कामकृत्यस्तथा बुधः । अनिर्जितेन्द्रियो सिद्धो भगवद्योगएव सः ॥३।। जहाति भगवत्कर्म पतितो याति रौरवम् । योगोऽयमेव यागश्च बाह्या ये व्याधयोऽभवन् ॥३२।। सर्व शरीरक्लेशाय येषु कृष्णो न चिन्त्यते । उत्सृज्य भगवत्कर्म सन्न्यासे हतसंशयः ॥३३।। निष्प्रयोजनदेहानां तेषां न सुलभो हरिः। इन्द्रियाणि प्रवृत्तानि कर्मस्विति न हीयते ॥३४॥ हीयते सातियाज्ञानि निषिद्ध ध्वनृतो यथा। भगवन्तं समुद्दिश्य तदेकशरणा नराः ॥३५।। कदाचिन्न च हीयन्ते कार्य (काम्य) कर्मरता अपि । उ श्रुतं स्मृतं दृष्ट स्पृष्ट रसितमेव यत् ।।३।। अवश्याद्याति तच्चित्तमथ कस्माद्विवर्जयेत् । पथा यथा परिचयं यत्र यत्र करोत्ययम् ।।३७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy