________________
शाण्डिल्यस्मृतिः हुत्वा जप्त्वा तथा स्तुत्वा योगं कुर्यादतन्द्रितः । पुष्पानुलेपनैर्दीपैरर्यपूर्वैर्यथाविधि ॥५॥ सन्ध्ययोरुभयोः कार्या पूजा परमपावनैः । त्रिकालं द्रव्ययागेन तथा नैमित्तिकार्चनात् ॥ ६ ॥ भक्तिज्ञानक्रियावृद्धिरविघ्नेनैव सिध्यति । नक्त कुटुम्बिकोऽश्नीयात् हितं पथ्यं सुतृप्तिमान् ।। ७ ।। सर्वच तिलसंबन्धं दधिशाकं च वर्जयेत् । मुद्गसम्बन्धसवं च शुक्त कालान्तरे भवेत् ॥ ८॥ अपूपवर्ज तच्चापि वर्ण्यमेव दिनान्तरे । शुष्कपक्क तथा वस्तु सघृतं शाकमेव च ॥ ६ ॥ बुरी(गुरु)भूतं च गर नीरं न पर्युषितदोषभाक् । दध्यन्नपायसान्नं च गुडान्नं च घृतोदनम् ॥१०॥ अपूपानि च वया॑नि न पर्युषितदोषतः । तद्र पेण पुनःपक्कारसगन्धान्तरान्वितम् ॥११|| अन्योपयुक्तशेपं च वयं स्याद् गव्यवर्जितम् । भक्ष्यापूपफलादीनां शय्यानामपि पू (= ?)शः ।।१२।। तत्संबन्धानुसन्धानमिति योगः प्रकीर्तितः । योगान्नामेन्द्रियैर्वश्य श्शुद्ध ब्रह्मणिसंस्थितः ।।१३।। प्रयुक्त रप्रयुक्तर्वा भगवत्कर्मविस्तरैः । आभास ज्ञानिनो ज्ञानं योगकर्मपृथक्तत:(पृथक् पृथक् ) १४॥ वदन्ति न तथा ज्ञयं त्रयमेकं विदुर्बुधाः । भित्तिवर्णवियोगेन यथा चित्रं न लभ्यते ।।१।।