________________
२८५०
शाण्डिल्यस्मृतिः अच्छिद्रकारिणां नित्यं पाश्चकाल्यमलं भवेत् । स्वाध्यायमभ्यसेन्नित्यं मनसा मौनमावहेत् ।।२३०।। अविरोधेन भूतानां मुच्चद्वाचमनाकुलः । यदुद्वगकरं वाक्यं अन्याथर्थावबोधनम् ।२३।। असत्यं निहतार्थं च नोच्चरेदपि गर्हिताम् । अर्थयुक्त (च) सत्यं च श्राव्यं प्रियकर मृदु ॥२३२।। शुद्ध मितं च सिद्धं च कालयोग्यं वदेद्वचः। वेदविद्याव्रतस्नातर्बाह्यान्तस्समचेष्टितैः ॥२३३।। असूयारहितैरस्मिन्छास्त्रे भक्त समाचरेत् । मूर्खाश्च पण्डितंमन्या अधा ह्यास्तिका इव ।।२३४।। धर्मयुक्तान् प्रबाधन्ते साधूनां लिङ्गमास्थितः । एकतस्त्वपवर्गार्थमनुष्ठानादिकौशलम् ।।२३।। लोकानुसारस्त्वेकत्र गुरुः पश्चादुदीरितः । भवन्ति बहवो मूर्खाः क्वचिदेकोऽपि शुद्धधीः ।।२३६।। त्रासितोऽपि यथा मूर्खरचलो यस्सबुद्धिमान् । न विश्वासः क्वचित्कार्यो विशेषात्तु कलौ युगे ।।२३७।। पापिष्ठा वादवर्पण मोहयन्त्यविचक्षणान् । गोपयन्नाचरेद्धर्मान् नापृष्टः किञ्चिदुच्चरेत् ।।२३८।। पृष्टोऽपि न वदेदर्थं गुह्य सिद्धान्तमेव च । आश्रितायातिभक्ताय शास्त्रश्रद्धापराय च ॥२३६।। न्यायेन पृच्छते सर्व वक्तव्यं शौचयोगिने । आत्मपूजार्थमर्थाय दम्भार्थमपि खिन्नधीः ।।२४।।