________________
उषवासप्रशंसावर्णनम्
२८४६ निषिद्धकर्मणि संप्राप्त . सोपवासं जपेन्मनुम् । परिहत्य तु पापानि जपन् कुर्वन् सदा क्रियाम् ।।२१६ उपवासपरो भूयः स कृच्छ्राणि समाचरेत् । उपवासपराणां तु कदाचिन्नेन्द्रियभ्रमः ॥२२०।। इन्द्रियभ्रमहीनानामविराद्ब्रह्म सिद्ध्यति । अक्षतर्पणयुक्तानां यततामपि योगिनाम् ॥२२॥ नित्यं पार्श्वगतो मृत्युः सर्वसंजीविनामिव । अवश्यं भवसन्तारमिच्छन्नविजितेन्द्रियः ॥२२२।। शरीरं शोषयेन्नित्यं कृच्छचान्द्रायणादिभिः । उपवासपराणां तु केवलं नाक्षनिग्रहः ।।२२३।। क्रियमाणं कृतं यद्वा सर्व पापं विनश्यति । एकरात्रं द्विरात्रं वा त्रिरात्रमपि पक्षयोः ।।२२४।। यथाशक्त्युपवासी स्याद्यतवाक्कायमानसः । एकादशीमुपवसेदिनषटकं तु शक्तिमान् ॥२२५।। श्रवणकादशीसवं कृष्णाष्टम्याख्यमादरात् । उपोष्यैकादशी वाऽपि भगवत्प्रीतये बुधः ।।२२६।। स्वाध्यायतत्परश्शश्वत् द्वादश्यां पारणं चरेत् । उपोप्य विधिवदेवमभ्यय॑ च पदेऽहनि ॥२२७।। भक्त सहाश्नतां तुनि श्वेतद्वीपवासिनाम । उपवासदिने विद्वानात्मयागं विनैव तु ||२२८।। अन्यत्समाचरेत्सवं यथापूर्व तु विज्वरः ।
अथवा जपनिष्ठानां दातृणां मितभोजिनां ।।२२६।। १७६