________________
૨૮૪૮
शाण्डिल्यस्मृतिः अथाहमिन्द्रियैरात्मा सेव्यते सक्रियापरैः ।
.... . . . . . . . . ||२०८।। स्वामिन्यवस्थिते गेहे भृयवर्ग इवान्तरः । यथा यथा हरि भक्त्या जानाति पुरुषोत्तमम् ।।२०६।। तथा तथा समुत्सृज्य पापानि कुरुते शुभम् । सदाचारस्य वैकल्यमल्पं वा यत्र दृश्यते ॥२१॥ विकलां भक्तिरत्रेति बोद्धव्यं तमसाञ्जनान् । रजस्तमः क्षयादेव शुद्ध सत्त्वं ततोऽमलम् ।।२११।। ज्ञानं भवति विज्ञानात भक्तिः पुंसां प्रजायते । कर्मणा ज्ञानमिश्रेण स्थिरप्रज्ञोभवेत्पुमान् ॥२१२॥ सत्प्रकाशे तु न तमो रजो वा वर्त्तते क्वचित् । शुद्धाचारपरत्वं हि शुद्रसत्त्वस्य लक्षणम् ।।२१३।। निषिद्धकाम्ययोगश्च सत्त्वेतरगुणोद्भवः । सच्छास्त्रनिरतायैव शुद्धसत्त्वा हि योगिनः ।।२१४।। अक्लेशेन सुमुक्तिर्य भवाब्धि याति तत्परम । वेदशास्त्रार्थतत्त्वज्ञ शश्वत्स्वाध्याय तत्परः ।।२१५।। योगधर्मकनिरतो ब्रह्मभूयाय कल्पते । सकृदेवातितोऽप्यषः स्वाध्यायोद्वादशाक्षरम ।।२१६१! भक्तानां पातकान्याशु नाशयत्यवशादिव । नित्यं स्वाध्यायशीलानां स्वाधीनेन्द्रियवृत्तिनाम ।।२१।। यजतां जुतां चैव जीवन्मुक्तिर्व्यवस्थिता । उपवासंविनैवायं महापातकनाशनम् ।।२१८।।