SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ योगविधिवर्णनम् २८४७ निष्प्रदोपस्यगेहस्य द्वारैरिव दुरात्मनाम् । दृश्यते करणैरन्तरन्धकारसमं निशि ।।१६७।। हृदयस्थे जगन्नाथे कार्यकारी प्रियं भवेत् । कालयोग्यं च कृत्त्वैव योगं भोजनमाचरेत् ।।१६८।। राज्यामजस्रयोगस्सन् यथाकामं समाचरेत् । भगवत्सन्निधाने वा विविक्तोऽन्यत्र वा स्थले ।।१६६।। योगं कुर्यात्समाधाय यथास्थानासनो वशी। उपलिप्ते शुचौ देशे कुशानास्तीर्य भूतले ।।२००।। शुद्धथासनं समाधाय वस्त्रेणास्तृणुयाच तत् । चीरशुक्लकृतं चर्म मार्ग वेत्रकृतं तथा ॥२०१।। अजिनमेकवस्त्रं च योगेस्यादासनं दृढम् । ईदृशः परमात्मा यः प्रत्यगात्मा तथेदृशः ।।२०२।। सद्धर्मानुसन्धानमिति योगः प्रकीर्तितः । योगानामिन्द्रियैर्वश्य बुद्ध ब्रह्मणि संस्थितः ॥२०३।। वदन्ति न तथा शेयं त्रयमेकं विदुर्बुधाः । भक्तिवन्न वियोगेन यथाचित्रं न लभ्यते ॥२०४|| कर्मज्ञानं तथा योगं विना योगो न लभ्यते । अज्ञस्त्वेकायनाचारं कर्मयोगं वदन्ति हि ।।२०।। सम्यग्ज्ञानमिदं प्राज्ञा वदन्त्यच्युतयोगिनः । योगो धर्म इति (प्रोक्त) साक्षाद्भगवतो विधिः ॥२०६।। सर्वेन्द्रियैरपि सदा योगो युज्यत इत्यतः । अनुसन्धानविज्ञानयोगेन ब्रह्मशाश्वतम् ।।२०७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy