SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ २८४६ शाण्डिल्यस्मृतिः सन्दिग्धान्नाश्रमे नावन्निवेद्यारोहयेद् बुधः। प्रयाणारम्भसमये मध्ये विश्रम्य चोत्थिते ।।१८६।। आचम्य पुनरुत्थाने कर्मारम्भं जपेद् बुधः । वल्मीकं गोमयं चैव छायामश्वत्थतालयोः ।।१८७|| न लश्यन्त्रद्विप्रो गवां नित्यमनापदि। छायायां विश्रमेन्नाऽपि कलिस्तस्यां हि तिष्ठति ।।१८८।। शास्त्राभ्यासपरस्यापि शास्त्रे भक्तिः सुदुर्लभा । शास्त्रे भक्तिमतामेव ह्यलभं शाश्वतं पदम् ।।१८६।। श्रवणं श्रावणंचिन्ता तदर्थे तस्य सङ्ग्रहः । चोदितानामनुष्ठानं शास्त्रे भक्तस्य लक्षणम् ।।१६०।। शास्त्राभ्यासपराणां च कर्मचाप्यनुतिष्ठताम । हृदये भक्तिहीनानां न शास्त्रां तु प्रकाशते ।।१६।। अभक्तानामनर्हाणां सन्छास्त्रं श्रूयतेऽपि वा । अन्यथा प्रतिभात्येव विषाक्तानां यथा पयः ।।१६।। प्रकाशयितुमात्मानं भक्तानां हितकाम्यया । अवतीर्णो जगन्नाथः शास्त्ररूपेण वै प्रभुः ।।१६३।। तस्माच्छास्त्रे दृढा कार्या भक्तिर्मोक्षपरायणैः । अभक्तस्य परे शास्त्रे भगवान्न प्रकाशते ॥१६४।। तामसानां विमूढानां पतितानां भवार्णवे । विपरीतं च सकलं धर्मज्ञानं प्रकाशते ।।१६।। उत्कीर्ण इव माणिक्यो विरलाम्बरवेष्टितः । दृश्यते विवरैरेव भक्तान्तः संस्थितो हरिः ।।१६६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy