SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ सच्छास्त्रश्रवणनपठन महत्त्ववर्णनम् २८४५ उपरम्येच्छनैर्विद्वान् स्तुतिगीति जपादिकान् । तोषयेदच्युतं भक्त्या भक्ष्यापूपफलादिभिः ।।१७।। समालिप्य जगन्नाथं कर्पूरागुरुचन्दनैः । कर्पटैय॑ञ्जनैर्वाऽपि यथाकालं समर्चयेत् ।।१७६।। भावयन्तो जगन्नाथं बोधयन्तं परस्परम् । सुसंभूय कथाः कुर्यात् सच्छास्त्राणि विलोकयेत् ।।१७७! सत्कर्मसततं कुर्यादऽसत्सवं च वर्जयेत् । एकमेकायनं शास्त्रं साक्षाद् ब्रह्मप्रकाशकम् ।।१७।। अन्यानि सर्वशास्त्राणि वदन्त्याच्छाद्य तत्परम् । सच्छास्त्रपठनैस्सद्भिशास्त्रार्थस्यापि शिक्षया ॥१७६।। शास्त्रार्थज्ञापनैर्वाऽपि शिक्षयेच्छास्त्रमादरात् । व्याख्यायालेखने नापि ग्रन्थनिर्माणकर्मणा ।।१८०।। शिष्याणां शिक्षया वाऽपि स्वाध्यायार्थेन मुच्यते । न स्मर्त्तव्यो विनीतेन वेदमन्त्रोऽप्यवैष्णवम् ।।१८।। काव्यालापोऽपि जप्योऽसौ यत्र संकीर्त्यतेऽच्युतः । गन्तव्यं यदि तीर्थार्थमुपादानार्थमेव वा ।।१८।। स्वाध्यायकाले गमनं प्रारम्भोऽथ यथासुखम् । अवश्यमिष्ट्वा हुत्वा च दत्त्वा चैव यथाबलम् ।।१८३।। गन्तव्यमिष्टसिद्धयर्थ भगवद्योगसेविभिः । शुभेऽनुकूले नक्षत्रे मुहूर्तेऽपि च मङ्गले ॥१८४।। दीर्घाध्वानं व्रजेद्विद्वान ससहायोऽप्रमत्तधोः । व्योम्नि देवं यजेन्नित्यं वाहुभ्यां न नदी तरेत ।।१८।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy