________________
भगवत्पूजाप्रकारः
२८४३ स्नानाचमनपानार्थमहणाद्य यदम्बुवत् । उपयुक्त भगवता पानीयं तत्प्रकल्पयेत् ।।१५३।। भोजनाद्य तथादिव्यं पादाम्बेकं समन्त्रकम् । पीत्वे(पिबे)दवश्यं सद्भक्तो मिश्रितं वाहणादिभिः ॥१५४।। भोजनं भगवत्कर्म यद्यपि स्यान्मनीषिभिः । न कार्य भगवद्गेहे विशेषाद्देवसन्निधौ ।।१५।। तनयोऽहमिति ज्ञात्वा पात्रं शय्यासनादिकम् । उपयुञ्जन् भगवतः पातिन्या यत्प्रकल्प्यते ।।१५६।। तन्मयत्वेऽपि पुत्रस्य पितुः पुत्रो यदाभवेत् । नित्यं भिन्नश्च स यथा तथा भागवतो हरेः ॥१५७।। भुक्तोत्सृष्ट भगवता स्वात्थं तस्मै निवेदितम् । उपयोज्यं भवेत्सवं नासा कार्य समाचरेत् ।।१५८।। फलत्रयमपूपं च गुडान्नं पायसं तथा । सर्व भगवते दत्तं भोज्यं तन्मन्त्रमूर्तये ॥१५६।। चन्दनं गन्धपुष्पं च खण्डं कर्पूरमेव च । नोपयुञ्जीत राजाईमन्यच्च न समर्पितम् ॥१६०।। श्वसूकरहतं यत्स्यादुच्छिष्टं यच्च मानुषम् । नावद्यपि तदश्नीयात् दद्याद्वातापि कर्मिणे ॥१६१।। माषादिचूर्णंमृद्भिर्वा प्रक्षाल्यं करयो योः । प्रक्षाल्य जानुपादौ च दन्तान्काष्ठविशोधयेत् ॥१६२।। विशुद्धवदनो मन्त्री स्वाचान्तो द्विरनाकुलः । प्रविश्य भगवद्गेहं नत्वा पुष्पाञ्जलिं चरेत् ॥१६३।।