________________
२८४२
शाण्डिल्यस्मृतिः गलेऽसत्कर्मणां रूपादमध्यस्य निषेवणात् । विषयेष्वभिषक्तानामायुः प्रक्षोयतेऽन्तरा ॥१४२।। पथ्यं मितं च शुद्धं च रस्यं हृदयनन्दनम् । स्निग्धं दृष्टिप्रियं चोष्ण मन्नं भोज्यं मनीषिभिः ॥१४३।। भगवद्यागयोग्यं यत्तदेवाशनकर्मणि । भोजनाहमिदं देव यागाङ्ग इति नेष्यते ॥१४४।। न भर्स्यन् बालपुत्रान् नावदन् न च भार्यया । अन्येभ्यो दापयज्ञस्या नश्नीयात्सहबान्धवैः ।।१४।। शक्तिहीनो यथाशक्ति दापयन्नन्नमम्बु च । भृत्यवर्ग समाश्नीयात् तेभ्यो दत्वा कदाचन ।।१४६।। पिबेभोजनपात्रेण पाणिना पानभोजने । प्रभूतं न पिबेत्तोयं नापिबन् वाशनं चरेत् ।।१४७।। पीत्वावशिष्टं चषके पुनस्तान्न पिबेजलम् । शाकाद्य नोत्सृजेस्थाल्यः पाणिना वापि भुञ्जताम् ॥१४८।। आद्यादाद्यन्तयोरार्द्रा मध्ये खिन्नमिवोदनम् । अन्नोपदंशपानीयै स्त्रिभागमुदरं भवेत् ॥१४६।। ये भुञ्जते समीपस्था ये भोक्ष्यन्ति ततः परम् । सर्व तन्मनसा बुद्ध्या तदर्हमशनं चरेत् ॥१५०।। भगवद्भक्तशेषं यद् भुक्त भागवता तथा । तदेव भोज्यमुद्दिष्ट भगवद्योगसेविभिः ।।१५।। वासोभूषणपुष्पाणि गन्धं तैलं तदौषधम् । सर्व भगवते नित्यमुपयुज्यान्निवेदितम् ॥१५२।।