SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ गृहमेधिनाधर्मवर्णनम् २८३६ पात्रांदाच शैलं च मृण्मयं पाणिमेव च । आयसं वर्जयेद्योगी भूपृष्ठं वस्त्रमेव च ॥१६॥ हैमं रौप्यं च तानं च कदलीनालिकेरकम् । कारयेद्भोजने पात्रमन्यत्कर्मण्यवृक्षकम् ॥११०।। कर्मण्येष्वपि भिन्नेषु नाश्नीयात्तैजसेषु च । निक्षिपेन्नच ताम्रषु दधिक्षीरघृतादिकम् ॥१११।। चतुरश्रेषु शुद्धषु सद्यः प्रक्षालितेषु च । भूमि संस्पृष्टपार्वेषु विष्टरेषु क्रमाविशत् ।।११२।। पालाशवटतालानामश्वत्थस्य च काष्ठजम् । चक्रादिलाञ्छितं भिन्नं वर्जयेदुच्चमासनम् ॥११३॥ वेत्रचर्मकृतं चैव तालपत्रकृतं कुशम् । . आसनं वर्जयेद्भुक्तौ यागयोगोपयोगि च ॥११४।। स्पृष्ट्वा भुवं पदापण पात्रं सव्येन पाणिना। अश्नीयान्मन्दमावृत्त्य पादौ वस्त्रान्तरेण च ॥११।। अङ्कनारोहयेत्पादं पाणिना नाक्रमेद् भुवि । अङ्ग वा न स्पृशेत्पद्भ्यां पादं पादान्तरेण वा ॥११६॥ उपलिप्य शुचौ देशे निश्छिद्रं चतुरश्रकम् । सविताने सदीपे च भोक्तव्यं भगवन्मयैः ।।११७|| वेत्रासनस्थे पात्रे च नाश्नीयान्नासने स्थिते । नाकं स्थे दारुसंस्थे च नाकेशेनार्द्ध कारिते ॥११८।। नाश्नीयाच्छयनारूढो न दीपे निहते पुनः । न दृष्ट्वा केशकीटाद्य नचावैष्णवदर्शने ॥११॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy