SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ विष्णुभक्तानां गृहमेधिनां धर्मः २८३७ ये पाचयन्ति धरणी चरन्तो पाञ्चकालिकः । दर्शनाद्भाषणात्तेषां कृतार्थाः सर्वजन्तवः ॥८७।। अभ्यर्च्य श्रद्धया प्राप्तान् सर्वानभ्यागतातिथीन् । पाषण्डवय॑मन्नाद्यौरग्निकार्य समारभेत् ॥८॥ लवणं चोदकं हित्वा कर्मण्यं यद्यदाहृतम् । तत्सर्वं जुहुयादग्नौ तिलपुष्पौदनादिकम् ।।८।। यदन्नं साधितं साधु प्रापणार्थ प्रयत्नतः । भगवद्भुक्तशेषेण तेनैव भगवक्रिया ॥६॥ यथा व्योम्नि यथा वेद्यां योगे ध्याने यथोदितम् । कुटुम्बाश्रमनिष्ठानां तद्वदग्निषु पूजनम् ||६|| पापक्षयक्रियापूर्तिस्सर्वोपद्रवनिग्रहः । शुद्धिश्चित्तप्रसादश्च तस्माद्धोमं न लोपयेत् ।।१२।। निषिद्धद्रव्ययोगेन पञ्चकाले निषेवणाम । श्रद्धया जुह्वतां नित्यं नाराध्यमिह किंचन ।।१३।। आवाह्याग्नौ जगन्नाथं मनसाभ्यय॑ शक्तितः । जुहुयात्काष्ठपुष्पान्नं घृतक्षीरतिलादिकम् ॥६४|| श्रद्धया परया हुत्त्वा यथाविधि विधानवित् । संविभागं च भूतानां कुर्याद्भगवदग्रतः ।।६।। भृत्याश्च द्विविधा ज्ञेया प्रेता जीवास्तथैव च । प्रेता मृतास्ववंशेषु जीवा जीवन्ति वै गृहे ॥१६॥ पितृपुत्रकलत्राद्या दासीदाससमाश्रिताः । रक्षणीया गृहे ये स्यु भृत्या जीवा इमे स्मृताः ।।१७।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy