________________
२८३६
शाण्डिल्यस्मृतिः अनर्पितं भगवते स्वाराध्यायं स्वतन्त्रतः । यद्भुक्त्वा कुरुते कर्म तद्व्यं यस्य तस्य तत् ।।७।। कर्मणा मनसा वाऽपि यथाकालं यथाबलम् । स्वाराध्याथ निवेद्य व सर्व भुञ्जीत बुद्धिमान् ।।७७|| शुद्ध न्यायन संप्राप्त साधितं साधुयत्नतः । अभोज्यमेव जानीयान्निजमन्त्रानिवेदितम् ।।७८।। मूर्त्यन्तरेण संभुक्त अयत्नेन समागतम् । स्वमन्त्रमूत्तिं सञ्चिन्त्य मनसा तत्समर्पयेत् ।।७।। स्वत आत्मनि देवेश शेषभूतोऽप्यहं गतः । तवास्तीति वदन्छुद्वस्तथा स्वेन समन्वितः ।।८०|| मुमूर्षवस्तथा बाला भगवत्पादयोः परैः । समय॑न्ते तथाशक्त भॊज्यमन्नं निवेदितम् ।।८।। तथा स्वाराधनेनैव न प्रीतो भगवान् हरिः। यथा भागवतश्रेष्ठपादाम्बुरुहपूजनात् ।।८२॥ यथा कु(कौटुम्बिकश्रीमान् कुमारैरनुमोदिते । मोदिते भगवान् तेस्तैस्तथा नियतमानसः ।।८३।। अनाहतसुतं गेही पुरुष नाभिनन्दति । तथाऽनर्चितसद्भक्त भगवन्नाभिनन्दति ।।८४।। यस्य यम्याधिकं दृष्ट्वा भक्तिज्ञानक्रियामपि । तं तं समर्चयेत्पूर्व यथाहं क्रमयोगतः ।।८।। निधनांश्चरतो लोके वृत्त्यर्थमिव स(सा)स्वतान । नावमन्यत तैीक मपात्री कुझते हरिः ।।८६।।