________________
भगवद्भक्तिविषयकनियमवर्णनम् २८३१ सावधानो भवेद्भक्त्या भृत्यो नृपमिवान्तिके। .. अन्यत्राप्यर्चयन्मन्त्री पूजाकाले जनार्दनम् ।।२१।। तत्रस्थं भावयेवं सर्वैश्वर्यसमन्वितम् । परीक्ष्य भोगानादाय तीर्थ्योऽप्यमृतरूपताम् ॥२२॥ प्रबाङ्गो भीतवद्भोगैस्तन्मयैस्तन्मयोचितैः । तत्राभिगमने पूर्व दिव्यमन्त्रार्थदर्शनात् ॥२३॥ साक्षादभिमुखं देवं भावयित्वाऽर्चयेद्वशी। भगवद्वदनाम्भोजस्यन्दमानामृतोदधिः ॥२४॥ पिबन्निवमहालादमध्यस्थः पूजयेत्प्रभुम् । भक्तसन्दर्शनप्रीत्या नानाभूतैरिवावृतः ॥२॥ नेत्रपातैर्भगवता स्वात्मानं शुचितां नयेत् । नातिपूतं नातिमन्दं नोच्चमन्त्रानुदीरयेत् ॥२६।। अत्वरः सुमनाः क्रोधकामं हित्वा यजेत च । न शब्दयन्स्वात्मसङ्घमम्धुनाना यन्महीम् ॥२७॥ नन्तु कु (?) अजल्पंश्च शुद्धमौनो भवेद्वशी । सम्पूज्याङ्ग रुपाङ्गश्च बद्धोष्ठं नासिकाक्षरैः ॥२८॥ अव्यक्तरप्यशुद्ध तन्मौनवद्वर्जनं शुभम् । यथा युवानं राजानं यदाचं मदहस्तिनम् ॥२६।। यथाप्रियातिथिं योग्यं भगवन्तं तथार्चयेत् । सम्यक्साधितमेवापि यत्स्यान्न हृदयंगमम् ॥३०॥ वर्जयेद् दृष्टदुष्टं च हस्तात्स्खलितमेवच । पुराभिगमनं मन्त्रैः प्रणवाद्य यथाविधि ॥३१॥