SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थोऽध्यायः इज्याचारवर्णनम् उपादानप्रकारो यः सम्यगुक्तः समासतः । इज्याचारं च वक्ष्यामि यथावदनुपूर्वशः ॥ १॥ भोगानुपाज्ययागाधर्म विधिवत्स्नानमाचरेत् । प्रक्षाल्य पादौ स्वाचामेत् (नित्यंयः) स्वोर्ध्वपुड़कः ॥२॥ सप(वि)त्रकरञ्चैव प्रसन्नो यागमारभेत् । व्यक्त वेद्यामायतने व्योम्न्यन्तहृदयाम्बुजे ॥३॥ एकस्मिन्नेव देवेशं यथायोगं समर्चयेत् । युक्तमायतनं वाऽपि प्रथमं यत्समाश्रितम् ॥४॥ आदेहपातात्तद्वित्त्वा नान्यबिम्बं समाश्रयेत् । उपचारेषु भक्तस्सन् स एष इति निश्चितम् ॥ ५ ॥ व्यक्तायतनयोः पूजां कुर्याद्भक्तिविबृद्धये । वेद्यन्तरिक्षवन्मौढ्यावृत्तिस्थानं प्रपश्यति ॥६॥ व्यक्तायतनसंस्थानं नाहस्तत्रार्चनाविधौ । कर्मिणस्सर्वथा नित्यमस्वाधीनप्रवृत्तयः ॥७॥ इति उग्रहयोगेन वेदिर्वेदप्रचोदिता । लब्धं गुरोः प्रसादेन क्रमागतमथाऽपि वा ।। ८ ।। उद्यतं याचितं वास्यान् निम्नं गौणमतोऽन्यथा । भक्तानां सर्वविषयव्यावृत्तदृढचेतसाम् ।। ६ ।!
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy