SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ भोजनपरिवेषणेश्रेष्ठनारीलक्षणम् २८२७ एवमादिगुणोपेत (1) नारीणामुत्तमा सती । भनु कर्म स्वनुरूपास्याः (१) कृतकृत्यस्सचेतनः ॥१४६।। श्लाघयन्ती स्वसामयं भर्तृ निन्दापरायणा । असमक्षं समक्षं वा दुष्टां तां वर्जयेद्बुधः ॥१४७।। भतुर्धनं च लोभास्त्री क्लिश्यमानेऽपि भर्तरि । गोपयन्त्यर्थशीलां तां कुर्यात्कर्म बहिष्कृताम् ।।१४८।। निजोदरं पूरयन्ती भृत्यवर्ग तथाऽतिथिम् । न्यूनस्वस्राति स्त्री वा तथा पाकं विवर्जयेत् ।।१४।। श्वश्चां विवदमानायां स्नुषाया स्वेन वा सुतैः। वारयेत्तां प्रयत्नेन विना तां कर्म कारयेत् ॥१५०।। धर्महानिर्यथा न स्याद्यथा सज्जनगर्हणा। सर्व तथा समीक्षं (क्ष्यं) द्रागाचरेद् बुद्धिमान्नरः ॥१५१।। स्वाधीनां कारयेन्नारी सर्वकर्मसु नात्मवान् । सर्वकर्मानुसन्ध्यात् स्निग्धः किल तयावसन् ॥१५२।। स्त्रीकृतेषु न विश्वासः कर्तव्यः सत्क्रियापरैः । मायाचारेण निपुणा मोहयन्त्यविचक्षणान् ॥१५३।। अपराधो यदि भवेत् प्रमादान्निजयोषिताम् । मुखभङ्गस्मृतस्तासां दण्डस्सन्तप्तचेतसाम् ॥१५४।। न ताडयेन्नातिमात्रं पुण्येन कृशतां नयेत् । स्त्रियं भर्ता नचान्येषां दोषं तस्याः प्रकाशयेत् ।।१५।। , भोजनाच्छादनैः पुष्पभूषणाद्यनिजस्त्रियम् । आलापैरसरसैनित्यं तोषयेत्तां सयेन्न च ॥१५६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy