________________
२८२६
शाण्डिल्यस्मृतिः ऊर्ध्वपुण्डुरलङ्कृत्य नयेद्यागालयं हविः । पाकस्थानं गृहं सव विमृज्याभ्युक्ष्य वारिणा ॥१३५।। आच्छाद्य वस्त्रमन्यच्च समाचामेत्कुटुम्बिनी। प्रविश्य भगवद्गेहं दीपं प्रज्वाल्य गेहिनी ॥१३६।। काङ्क्षन्ति भर्तुरायानं तिष्ठेत्सपरिचारिका । जघन्यशायिनी नित्यं पूर्वोत्थानपरा तथा ॥१३७।। अन्तर्बहिश्च संशुद्धिः गृहकर्मसु सोधमा । मङ्गलाचारशीलाश्च भृत्यबन्धुजनप्रिया ॥१३८।। हृद्यवेषा सदाभतुरानुकूल्यप्रयोजना । यथालब्धेन संप्रीता कुशला पाककर्मणि ॥१३६।। र(म्य)वस्तुषु निस्स्नेहा काले मेध्यान्नभोजने । भगवद्भक्तियुक्ता च तथा भागवतप्रिया ॥१४०॥ मितरभाषिणी हासरोदनोद्घोषवर्जिता। गृहान्तरद्वारदेशस्थानासनविवर्जिता ॥१४॥ निद्रालस्यविवादासद्भाषणासत्यवर्जिता । निस्पृहा परकार्येषु स्थिरबुद्धिदृढव्रता ।।१४२॥ अलब्धानुद्व(ल्व)णा स्निग्धा सलज्जा मधुरस्वना । कुशला लोकयात्रासु दुष्टादुरक्रियापरा ॥१४३।। व्यये च मुक्तहस्ता च दोषश्रवणभीषिता । नास्तिवाक्येऽतिसंत्रस्ता संचारे छन्नविग्रहा ॥१४४॥ नचवक्त्र (१) च लाभा च वेश्यालावण्यनिस्पृहा । गुप्तवेषरहस्यार्थ कर्मभोज्यान्नभोजना ॥१४।।