________________
भोजनस्याग्निदेवस्यसमर्पणवर्णनम् २८२१ यथाबलं समभ्यर्च्य साग्निं देवं ततोऽशनम् । घृतस्थाली विना सर्व जलक्षीरान्नसंश्रयम् ॥८०॥ कर्तव्यं दिवसं भाण्डमारुतातपतापितम् । कर्मण्यनघयुक्तषु पूर्वस्मिन्दिवसेऽनिशम् ।।८।। परस्मिन्दिवसे कुर्यात् पात्रेषु पचनादिकम् । गृहोपकरणं सर्व मुसलोलूखलादिकम् ।।८२॥ प्रक्षा(लये)जगन्नाथं यागोपकरणानि च । यागार्थ देवदेवस्य पाकाथं चाम्बुपावनम् ॥८३॥ स्थापयेत्पादहस्तादि शुद्धयर्थ च पृथक्पृथक् । वस्त्रेण बहुशश्शोध्य त्रिविधं चाम्बुपावनम् ।।८४।। इज्याङ्गमेवमेवाद्यसंस्कृतं क्षालयेत्पुनः । कर्मण्यं त्रिविधं वारि शुद्धभाजनसंभृतम् ॥८॥ कृच्छ्राद्य स्थापयेच्छीते निर्बाधे परिवर्जिते । अग्न्यगारं च संशोध्य यागोपकरणानि च ॥८६॥ उद्धृत्य भस्म सम्माय॑ वहिँ काष्ठस्समिन्धयेत् । करीषकबलं क्षिप्तौ कुसुमाद्य समर्चयेत् ॥८७।। श्रद्धयाच्छाद्य गृहिणी पुत्रवत्परिरक्षयेत्। शोषयेच्छुद्धभूभागे ब्रीहिमुद्गतिलादिकान् ।।८८।। पाकपश्वादिभूतानामप्राप्ये संवृताम्बरे। उपलिप्तौ शुचौ देशे शुद्ध शूदिसाधने ॥८६॥ ब्रीहिमुद्गादिकं सर्वमपहन्युः कुलाङ्गनाः। अस्पृशन्त्यो निजं देहमजल्पन्त्यस्तथा स्त्रियः॥६