________________
२८२०
शाण्डिल्यस्मृतिः कुटुम्बसक्तो मूढात्मा राजसो नेह सम्मतः । रजसा तमसा वाऽपि यो यदा कलुषीकृतः ।।६।। अमेध्यद्रव्यवन्नाईस्सदाकर्मणि वैष्णवे । एवं सद्गुणसम्पन्ना महाभागवतप्रिया ॥७०।। कुटुम्बिन्यपि कर्त्तव्यं कर्म कुर्यादतन्द्रिता । उत्थाय पूर्व गृह्णीत सुस्नाता यतमानसा ||७१।। स्नुषादुहितपुत्राद्यान्यथाद्य शुचितां नयेत् । उर्ध्वपुण्ड्धराश्शुद्धा वस्त्राभरणभूषिताः ॥७२।। स्वाचान्तः प्रयतोदेवमभिगच्छेयुराहताः । त्रिसन्ध्यां कारयेद्वालान् प्रणामं देवपादयोः ।।७।। पुत्रः प्रेष्यस्तथा शिष्य इत्येवं विनिवेदयेत् । गृह्णीत प्रमुखास्सर्वा यजन्त्यः पुरुषोत्तमम् ।।७४।। बालक्रीडादिचरितैः कर्म कुर्युरतन्द्रिताः । पशुपुत्रादिकं सर्व गृहोपकरणानि च ॥७५।। अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् । कारयित्वा सुवर्णन पञ्चायुधगणं हरेः ॥७६।। बनीयात्कण्ठदेशे नु बालानां सूतिकागृहे । न पुत्र ये दास्यन्ति शयनानि महीतले ॥७७।। स्थापयेत्क्षेत्रमध्येषु शिलां चक्रादिमुद्रिताम् । मुक्तामणिसुवर्णाद्यः कृत्वा चक्रादिभूषणम् ।।७८।। यथाहं विभृयुस्सर्वे पुमांसं स्त्रीजनोऽपि वा। वृद्धवालाङ्गनादीनां पूर्वाह्न भोजनं भवेत् ।।७।।