SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २८१४ शाण्डिल्यस्मृतिः वक्ष्यामि वस्समासेन कथम ज्ञानां शुद्धिमृच्छति । कर्मण्यमेवोपादाय वर्जयित्वा तथेतरत् ॥३॥ क्रियमाणानि कर्माणि सफलानि भवन्ति हि । स्वकीयारामजातानि वन्यान्यन्यानिवादरात् ॥४॥ पुष्पपत्रोदकादीनि प्रातरेव समाहरेत् । क्रयेण वा हरेत्सर्वमपक्वं योगसाधनम् ॥ ५॥ फलपुष्पाम्बुकाष्ठाद्य विक्रोणीयं न किञ्चन । विक्रीणान्ब्राह्मणो द्रव्यं क्रोणान्वामृद्धिकांक्षया ॥६॥ खिन्नवृत्तिर्विकर्मस्थस्सत्पथाश्वपते (श्च्यवते) पुनः। वार्छष्यमुपजीवन्ति ये द्विजा लोभमोहिताः ।। ७ ॥ अभोज्यान्नानपाङ्क्त याः क्रियास्तेषां च निष्फलाः । पुष्पपत्रफलादीनि शाकानि विविधानि च ॥ ८॥ स्वेषु स्वेषु च कालेषु श्रद्धया वर्धयेद् गृही। मण्ट (ण्ड)पानि सरम्याणि पद्मोत्पलवनानि च ॥४॥ क्रीडाथ देवकीसूनो श्रद्धां भक्त्त्या प्रकल्पयेत् । तुलसीवाटिका यत्र यत्र वा कमलालया ॥१०॥ पञ्चकालपरा यत्र तत्रासौ भगवान्हरिः । सर्वैरक्षतैनित्यं अश्य(१)र्यकुसुमदुमान् ॥११॥ तुलसीं चाहरेत्पत्रपुष्पाद्य वाग्यतश्शुचिः । स्वयं संवर्ध्य तुलसी द्वादशाक्षरचिन्तया ॥१२।। अर्घयन्ति जगन्नाथं श्वेतद्वीपं प्रयान्ति ये । दण्डप्रणाममपि वा कारयेत्पुष्पवाटिकाम् ।।१३।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy