________________
२८१२
शाण्डिल्यस्मृतिः प्रदक्षिणानमस्कारं जपध्यानार्जनास्तुतिम् । मत्कर्मतद्गुणोद्घोषैविना नात्रान्यदाचरेत् ।।७।। पादप्रक्षालनं व्याविष्टरं चावकुण्ठनम् । न कुर्याद् भगवद् गेहे भासं कण्ठध्वनि तथा ॥७६।। भोजनं स्वापमुद्घोषं ताम्बूलं केशशोधनम् । छत्राद्य च तथान्यांश्च न कुर्यान्नुल्बणक्रियाः ।।८।। प्रदक्षिणे प्रणामे च पूजायां हस्ने तथा । न कण्ठगतवस्त्रस्स्यात् दर्शने गुरुदेवयोः ॥८१।। भगवन्मन्दिरे वृद्धान् पूज्यानपि विशेषतः । विना भागवतश्रेष्ठ प्रणामाद्यर्नचार्चयेत् ॥८२।। गुरो हे देवगृहे पु(प)ण्यवाट्यां गवां कुले । कृपणं चोल्वणं कर्म वर्जयेदपि संसदि ।।८३।। जप्त्वाभिगमनं मन्त्रां वर्जयित्वा यथाविधि । आसनाादिभिर्भोगर्भक्त्या परमपावनैः ॥८४।। अभिगम्य जगन्नाथं ध्यायन्नेव सनातनम् । जपेद्यथाबलं प्रातः सहस्रशतसङ्ख्यया ॥८५।। कनिष्ठादि समारभ्य दर्शपर्वभरात्परः । पद्माक्षैस्स्फाटिकैर्वाऽपि जपेदुक्तादिभिस्तदा ।।८६।। आचार्य देवभक्तं च भगवन्मन्दिरं जलम् । अग्निमर्क च सोमं च पृष्ठकृत्य जपेन्न च ।।८७।। आपीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् । जपतः पातकान्याशु नश्यन्ति सफलाः क्रियाः ।।८।।