________________
प्रातःकृत्यवर्णनम्
२८११ नैकवस्त्रो न खिन्नश्च न ऋद्धो मलिनोऽपि वा। नाक्षालिताद्धिर्नाभ्यक्तो नातुरो न वदन्बहु ॥६॥ न रक्तकृष्णमलिनं वासोऽपि परिधाय च । न च शून्यकच्छश्शास्त्री न यायाद्भगवद्गृहम् ॥६८।। प्रणम्य दण्डवद्भूमौ उत्थायोत्थाय तन्मनाः । स्वाध्यायवदनः कुदर्शद् अष्टाङ्गन नमस्क्रियाम् ॥६६॥ . नमस्कुर्वन् प्रतिदिशं वाग्यतो ध्यानतत्परः । असंसक्तकरैः कैश्चिन्मन्दं कुर्यात्प्रदक्षिणम् ॥७०।। द्विचतुष्षड् दशाष्टाद्यः कुर्यादेव प्रदक्षिणम् । देवस्य निकटे कायं सम्यग्जानुप्रदक्षिणम् ॥७॥ चक्रवर्द्रमयेन्नाङ्ग पृष्ठभागं न दर्शयेत् । सन्निधौ देवदेवस्य नचोच्चैः प्रलपेत्तथा ॥७२॥ निधाय दण्डवह हें प्रसार्य चरणौ करौ । बद्ध्वा मुकुलवत्पाणिं प्रणामो दण्डसंज्ञितः ॥७३।। पादौ शिरस्तथा हस्तौ निकुञ्च्य मुकुलाकृतिः । मनोबुद्धयभिमानश्च प्रणामोऽष्टाङ्गसंज्ञितः ।।७४।। मस्तकं संपुटं चैव प्रह्लादं च त्रयं बुधैः । कृतयोरन्ययोः कार्यमन्यथा विकलो भवेत् ।।७।। सर्वत्र दृष्ट्वा देवेशं जितं त इति मन्त्रकम् । द्वादशाणं जपेन्मन्त्रं भीतवत्पूर्वमानतः ॥७६।। मत्कृतानि च कर्माणि मदीयमहमप्युत । तथैव नममेतीष्टं नमो भगवतैरिह ॥७७।।