SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ २८१० शाण्डिल्यस्मृतिः उक्तांमर्मगतंवाक्यं त्वङ्काराद्यञ्जने गुरौ । विवादं च जपस्नाननमस्कारैः पुनःश्शुचिः ॥५६।। शिरो विवर्य न स्नायान्निमज्जेतामुना सह । न स्नानशाटी पाणिभ्याम्मदयेदपि वा शिरः ।।७।। न कुर्यादा वस्त्रेण कर्म भागवतं बुधः । न दक्षिणामुखो शुद्धः पैशाचं तदुदाहृतम् ।।८।। प्रक्षाल्याजानुचरणौ मृज्जलैः कूर्परावधि । हस्तौ विमृज्य वदनं विद्वानाचमनं चरेत् ॥५६।। सुप्त्वा क्षिप्त्वा च निष्ठीव्य स्पृष्ट्वा नासापुटादिकम् । पादोदरं च भक्ष्यांश्च संभक्ष्याचमनं चरेत् ॥६०।। स्नात्वा संप्रोक्ष्य पतितांश्चण्डालाद्यांश्च गर्हितान् । पाषण्डिनश्च स्वाचान्तः पवित्रं ध्यानवान् जपेत् ।।६।। पूजायां स्नानकाले च भोजने जपकर्मणि । अवैष्णवानां जन्तूनां दर्शनाद्य विवर्जयेत् ॥६२।। नित्यं तीर्थोदकस्नायी तर्पयंस्तत्र तज्जलैः । श्रद्धया भगवन्मन्त्रैः सिद्धस्स्यादचिराद्विजः।।६३।। कर्मारम्भेण मन्त्रेण सर्व कर्म समारभेत् । पवित्रीकरणञ्चापि पवित्रेणैव सर्वतः ॥६४।। अभिगच्छेच्च देवेशं सुस्नातस्सोर्ध्वपुण्डकः । सुप्रक्षालितपादश्च स्वाचान्तस्संयतेन्द्रियः ॥६५।। सन्ध्ययोरुभयोनित्यं यावदकर्मदर्शनम् । ध्यायेद् ब्रह्म जपेन्मौनी तत्राभिगमनक्रियाः ॥६६।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy