________________
२८०८
शाण्डिल्यस्मृतिः चतुर्धा विभजेत्तां तु वामपाणितलोदरे। चतुर्मन्त्रैः परामृश्य मुखबाहुकलेवरान् ॥३४॥ पदौ यथाक्रमं लिंपेत् चतुर्मन्त्रेण मन्त्रवित् । तत्रस्थं भावयेवं समय गराशिभिः ॥३५॥ आसनाद्य यथाशक्ति समभ्यर्च्य जगद्गुरुम् । ध्यात्वा गङ्गा हरेः पादात्पतमानां स्वमूर्धनि ।।३६।। पवित्राद्यन्तकाभिज्ञाः मन्त्रैरिसञ्चेत्करात्करात् । ध्यायन्देवं परं ब्रह्म यथाशक्ति निमज्य च ॥३७॥ चतुर्निमज्य विधिवद् आचम्यादाय वाससा । खण्डद्वयं शिरश्चाङ्ग प्रत्येकं परिमर्द येत् ।।३८।। अन्तराच्छाद्य कौपीनं वाससी परिधाय च । ध्यानमौनपरो मन्त्री सम्यगाचमनं चरेत् ।।३।। भोजनाद्यतयोमूत्रशौचान्तेयज्ञकर्मणि । द्विद्विराचमनं कार्य वाससा परिवर्तते ॥४०।। पुण्यक्षेत्रे समुद्भूतां मृदमादाय वैष्णवीम् । प्रणवाद्यव (श्व) मूलेन कर्मारम्भं पुनर्जपेत् ।।४।।
आहृत्याम्बु पवित्रेण कृत्वा सव्यकरोदरे । कर्मारम्भेण मन्त्रोण मृदमालोडयेद्वशी ॥४२।। ब्रह्मणा तत्समीकृत्य ध्यायेद्दवें सनातनम् । प्रदेशिन्या समादाय किञ्चिच्छिरसि धारयेत् ॥४३॥ ललाटबाहुहृदयेष्वार्जवेन प्रदीपवत् । कृत्वोर्ध्वपुण्डू नाम्नां च चतुर्नान्या समाचरेत् ।।४४।।