________________
प्रातःकृत्यवर्णनम्
नाचरेत्प्लवनक्रीडां न गण्डूषं जले क्षिपेत् । अन्योऽन्यं नोक्षिपेत्तोयं न देहमलमुत्सृजेत् ||२३|| न कुत्सयेदम्बुतीर्थमन्यत्तत्र न कीर्त्तयेत् । शोधयित्वा धृताम्भोभिर्देहं तीरे पुनर्जलैः ||२४|| प्रक्षाल्य भूमिं कर्मार्थमवतारं च शोधयेत् । न स्नायात्सहशूद्रण न स्त्रीभिर्नच नास्तिकैः ॥२५॥ न पापण्डेर्न बालैश्च न रोगाशौचिभिर्नरैः । चण्डालं शास्त्रपतितं शास्त्रनिन्दापरायणम् ||२६|| परित्रस्तं च नष्टं च दूरतः परिवर्जयेत् । शरीरं निर्मलीकृत्य कर्मारम्भपुरस्सरम् ॥२७॥ शुद्धावगाहनं कृत्वा समाचामेद्यथाविधि । जान्वोरन्तः करौ कृत्वा प्राङ्मुखो वाऽप्युदङ्मुखः ॥२८॥ पाणि च संस्पृशन्नद्भिः प्रकृतिस्थाभिरेव च । आदाय विमलं तोयं ब्रह्मतीर्थेन वाग्यतः ॥२६॥ हृद्गतं तु चतुःप्राश्य न शब्दमवतारयन् । तत्कालमार्जनं कृत्वा पाणिपादाववेक्ष्य च ||३०|| अङ्गुष्ठानामिकाभ्यां तु चक्षुषी संस्पृशेत्ततः । तर्जन्यङ्गुष्ठयोगेन श्रौत्रे चैव समालभेत् ॥३१॥ सर्वाभिरङ्गुलीभिश्च बाहुमूले उपस्पृशेत् । हृदयं च मूद्धिं जलं स्पृष्ट्वान्तरान्तरा ||३२|| न तिष्ठन्नैकहस्तेन न शूद्रावर्जितेन च । शुद्धां मृदं समादाय जप्त्वा मन्त्रचतुष्टयम् ||३३||
२८०७