________________
२८०
शाण्डिल्यस्मृतिः न वल्मीके न रन्ध्र षु न करीषे न चोपले । न देवतारिशिष्याग्निगुरुवृद्धाङ्गनामुखः ।।१२।। नगो गगनदिक्तारागृहामेध्यावलोककः। न जल्पन्नस्पृशन्मौनी नचानावृतमस्तकः ॥१३॥ चिरन्नोपविशन्नाति पीडयन्नार्द्ध वैशसम् । एकाकी मुक्तपवृक्षो यतसर्वेन्द्रियक्रियः ॥१४॥ मेहनादि क्रियां कुर्यान्नवाच्छादितनासिकः । उदङ्मुखो दिवानक्तं दक्षिणामुखसंस्थितः ।।१।। दिवेव सन्ध्ययोः कुर्यान्मेहनाद्य विचक्षणः । वल्मीककृष्णभूतोथकीटाशुद्धादियोगिनम् ।।१६।। वर्जयित्वा मृदाशौचं कुर्यादुद्धृतवारिणा | पञ्चधा लिङ्गशौचं स्यात् गुदशौचं त्रिवेष्टितम् ।।१७।। मनःप्रसादनं कुर्यात् शक्तुं मूत्रविलोपनम् । पादयोलिङ्गवच्छौचं हस्तयोस्तु चतुर्गुणम् ।।१८।। दन्तान्तुशोधयेत्प्रातः पलाशवटपिप्पलान् । विहाय स्वशुभैराम्रपूर्वै विधिवदत्वरः ॥१६॥ उत्पादयन्नरक्तं च न पश्यन्सर्वतो दिशम् । समुद्रगापगादेवखातवापीह्रदाश्रये ॥२०॥ स्नायाजलेन देवानां संसर्गपरिवजिते । सरसे सेविते सद्भिदृष्टिदोषविवर्जिते ॥२१|| विशुद्धतीरभूभागे स्नायाल्लघुनि वारिणि । अम्बु न क्षोभयेदङ्गः पादेनोत्सादयेन्न च ॥२२॥