SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ प्रातःकृत्यवर्णनम् २८०५ मुनिरुवाच । सहाभिगमनेनैव प्रातःकालानुयायिना । वक्ष्यामि योगादूर्ध्व यत् कर्तव्यं स्नानपूर्वकम् ॥२॥ उच्चैस्स्वरेण योगान्ते स्तुत्वा स्तोत्रैरनन्यधीः । वासुदेवादिदिव्यानां नाम्नां संकीर्तनं चरेत् ॥३॥ प्रादुर्भावगुणं चापि संस्मरेत्त्सर्वसिद्धये । कीर्तयेत्तद्गुणान्भक्त्या परमाद्भुतवेष्टितान् ॥४॥ अतन्द्रितस्य स्वाध्याये योगे युक्तात्मनस्सदा । सद्भक्त्या स्विन्नदेहस्स्यावश्यं नाम(नु)कीर्तनम् ।।५।। आदाय वस्त्रदण्डादि गृहीत्वा च कमण्डलुम् । प्रवृत्तच्छन्नमूर्दा च कर्मारंभपरो व्रजेत् ॥ ६॥ ग्रामार्बहिर्विनिर्गत्य विसृजेत्सहचारिणः । अपरिग्रहदेशेषु कुर्यान्मलविसर्जनम् ।। ७॥ मेहने मैथुने स्नाने भोजने दन्तधावने । इज्यया सह होमे च जपेन्मौनं समाचरेत् ॥ ८ ॥ स्वदक्षिणश्रुतिन्यस्य ब्रह्मसूत्रस्समाहितः । न श्मशाने न कृष्टेषु न मार्गे न च भस्मनि ॥६॥ नोपरे न च सस्येषु न गुल्मेषु न च सैकते । न वृक्षमूले नामध्ये न कीटेषु न चत्वरे ॥१०॥ नोदकान्ते न गोवासे न हृद्य न गृहाङ्गणे । न देवालयपार्वेषु न नद्यां नाप्यसन्निधौ ॥११॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy