________________
२८०२
शाण्डिल्यस्मृतिः यथाशक्ति तपः कृत्वा दत्त्वा चैव यथाबलम् । तथाऽहमास्थि(तो)ध्यात्वा जपेत्सर्वाघशान्तये ॥६६।। उपवासात्तथादानात् सद्भक्तानां च सेवनात् । सङ्कीर्तनाजपात्तापाच्छ्रद्धया शुद्धिमृच्छति ॥१७॥ उपासीत निरस्तोऽपि पञ्चकालपरायणान् । यदीच्छेद्भगवद्धर्म सेवया भवशान्तये ॥६८|| पूर्वोक्ताचारसम्पन्नं युवानं गृहमेधिनम् । उत्तमैवृद्धसख्यं च भवसेवाविवर्जितम् ॥६॥ प्रख्यातशुद्धचरितं सद्ब्रह्म कपरायणम् । भगवद्धर्मसंयुक्तमर्थसेन्देहनोदकम् ॥१०॥ प्रतिपादनसामर्थ्य युक्तवत्पुत्रपातिकम् । उदारं भक्तिविवशं वशीकृतजगजनम् ॥१०१।। हृद्यवाक्यं कृतज्ञच दयाकृतमानसम् । अशूशिष्यश्शूद्राणां ज्ञानदानेष्वनाहतम् ।।१०२।। अक्रोधनमनुसिक्तमतिषण्णं विपत्स्वपि । भगवद्भक्तियुक्तषु दृष्टमात्रेण सुप्रियम् ।।१०३।। साधूनामुपकाराय व्यापृतं क्लेशवर्जितम् । ज(अ)न्यून्तूि)नानन्तरक्ताङ्ग विषयग्राहकेन्द्रियम् ॥१०४।। सौम्यवेषप्रशान्तं च पापरोगविवर्जितम् ।। अदुर्बलाङ्गमाख्येयं अक्त हन्नातिमानिनम् ॥१०।। शिष्याणां समहादेव प्रतिष्ठापनकर्मणि । शान्तिके पौष्टिके भीतं गुरुशुश्रूषणे रतम् ।।१०६।।