________________
भगवत्पूजनविधिवर्णनम्
२८०१ पूर्वमन्त्राक्षरं मन्त्रन्तु लयरूपसमाप्ति च । रसाधु त्सृष्टविषये भोगमोक्षमहासुखम् ।।८।। एवमादिगुणोपेतं भक्तिज्ञानोज्ज्वलं कृतम् । इष्टमन्त्रेण द्रव्यं च परमं कर्म मङ्गलम् ।।८६।। देहेन्द्रियान्तःकरणबुद्धिभूम्यर्थसिद्धिकृत् । । अत्रोक्तलक्षणोपेतकर्मभागमतः परम् ।।८७।। सप्तसंशुद्धिसंयुक्ता परिपूर्णा भवेक्रिया । सप्तैते विमला भावा श्रद्धावान् प्रारभेत्क्रियाम् ।।८८।। आधानादतिशुद्धा भा संस्कारैः पञ्चकालिनाम् । कुर्याद् ब्राह्मण एवैतत् त्रैविद्यो वा विशुद्धधीः ॥८६॥ श्रद्धावान् भगवद्धर्म रागादिरहितेन्द्रियः । ब्राह्मणः पूजयेन्नित्यं पञ्चकालपरायणान् ।।१०।। वस्त्रगोभूमिदानेन धनधान्यादिभिस्तथा । तोपयेत्परया भक्त्या नित्यं भागवतान्नरान् ॥६॥ सिद्धिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽत्र तद्भक्तपरिचर्यारतात्मनाम ॥१२॥ केवलं भगवत्पादसेवया विमलं मनः। नरायते यथा नित्यं सद्भक्तचरणाचनात् ॥६३।। विशिष्टकुलसंजातसंस्कारस्संस्कृतो निजैः । त्वदितो यदि सिद्धिर्म चरेत्कृच्छ्राणि दान्तधीः ।।६४|| तपश्चर्तुमशक्तश्चेद धनवान्दानमाचरेत् । उभयोरयशक्तस्सन् नामसंकीर्तनं चरेत् ॥६।।