________________
२८००
शाण्डिल्यस्मृतिः मोक्षभूमिरितिख्यातमलाभे साधुसम्मतम् । दिव्यापगा देवघातवाप्यादिविमलोदकम् ॥७४।। प्रभूतकदलीचूतनालिकेरादिमण्डितम् । सुसमृद्धसमित्काष्ठसम्पन्नकुसुमोदकम् ॥७॥ आसन्नधोजलं रूढपलाशतुलसीकुशम् । गोसहस्रसमाकीणं सपुष्पं सोत्पलाम्बुजम् ॥७६।। एवमादिगुणोपेतं भूतलं यदि लभ्यते । विविक्तदेशभूभागे दृष्टदोषविवर्जिते ॥७७|| प्रासादं पर्णशालां वा कृत्वा निजबलान्वितम् । अविस्मृतमनिर्बाधं परितोऽपि मनोहरम् ॥७॥ वत्राप्युच्छिष्टमूत्रासृक् केशकीटादिवर्जितम् । करीषमृजलालिप्ते काष्ठताम्रण चेतसः ॥७॥ संप्रीतिजनके स्थित्वा भूतले भगवत्क्रिया। कर्त्तव्यमिति यत्नेन या शुद्धिभूतिगोचरा ॥८० देहाशुद्धिरितिख्याता सेयं सच्छास्त्रवर्त्मनि । अनार्यजनसंरोधवीक्षणादितिवर्जितम् ॥८१।। श्रद्धातिरेकसंयुक्त दम्भलोभविवर्जितम् । आत्मार्थं त्यक्तसंसिद्धि रूपालोकन तत्परम् ।।८।। अचञ्चला विषण्णान्तः करणायत्प्रीति संयुतम् । संकल्पपूर्वकं ध्येयं पदाब्जन्यास योगि च ॥८३॥ द्रव्यमन्त्रे च मन्त्रेषु समाहितमहामति । गुप्तसंसाररहितं शुद्धमौनमवितथम् ॥४॥