SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ २७६८ शाण्डिल्यस्मृतिः अभेद्या परमा बुद्धिश्शुद्धति परिकीर्त्यते । परदारपरद्रव्यपरहिंसानुचिन्तनम ॥२॥ वैरानुबन्धनं चैर्षमलभ्यत्थानुचिन्तनम् । सुदूरं बहुधायातं भोक्तव्यमितिचिन्तनम् ॥५३।। असत्कथानुसरणमसत्कार्यनिरूपणम् । इत्यादिदोषरूपाणि हित्वा कर्मणि निश्चलम् ॥५४॥ भगवत्कर्मसिद्धयर्थं व्यापृतं भगवत्परम् । अविषण्णमनायस्तमहङ्कारविवर्जितम् ॥५॥ असद्विषयसक्तानामिन्द्रियाणामहर्निशम् । दमकं सर्वयत्नेन बाह्यारंभं विनिस्पृहम् ॥५६॥ सर्वदा भगवद्ध्यानं संसर्गविगतज्वरम् । भगवद्भक्तसद्वाक्यगङ्गाजलपवित्रितम् ॥५७|| सदर्थग्राहकं सूक्ष्मज्ञानरूपविचारकम् ।। समर्थमप्रधृष्यं च धृष्ट तुष्टमसङ्गि च ॥८॥ एवमादिगुणोपेतं निर्मलं मन इष्यते । इन्द्रियाणां सदेहानां बुद्धश्चमनसस्तथा ॥५॥ आख्याता शुद्धिरेषाऽत्र द्रव्याणामधुनोच्यते । इच्छया देवदेवस्य प्रकृतिस्त्रिगुणात्मिका ॥६॥ जगत्करणभूतान्ता विद्यत्याहुर्मनीषिणः।। तद्विकारं जगत्सर्व सदेवासुरमानुषम् ॥६१।। तस्याः स्वरूपं सत्त्वं तत् तदोषावितरौ गुणौ । अतएव विकारोऽयमभवत् त्रिगुणात्मकः ॥६२।।
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy