SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ज्ञानकर्मभ्यां हरिरेवोपास्यइतिवर्णनम् इदमेव तु सच्छास्त्रमयं धर्मः सनातनः । अन्यानि सर्वशास्त्राणि मोहनानि क्रियास्तथा ॥ ४१ ॥ भ्रमन्ति सर्वभूतानि न च गच्छन्ति सत्पथम् । तामसं राजसं चान्यमेतत्सात्त्विकमुच्यते ॥ ४२॥ इदं हेयमिदं हेयमुपादेयमिदं परम् । एवमुक्तं पुराणेषु वेदेषूपनिषत्स्वपि ॥४३॥ एवं साधुभिराचीर्णमेव मन्याप्यकारिभिः । साक्षाद्ब्रह्म परं धाम सर्वकारणमव्ययम् ॥४४॥ देवकीपुत्र एवान्ये सर्वे तत्कार्यकारिणः । देवा मनुष्याः पशवः मृगपक्षिसरीसृपाः ॥४५॥ सर्वमेतज्जगद्धातुर्वासुदेवस्य विस्तृतिः । प्रवृत्तैश्च निवृत्तैश्च स्वर्गदैर्मोक्षदैरपि ॥ ४६ ॥ आराध्यो भगवानेव वेदधर्मै स्सनातनैः । स एव सर्वथोपास्यो नान्ये संसारतारणाः ||४७|| उभाभ्यां ज्ञानकर्मभ्यां आराध्यो भगवान् प्रभुः । तज्ज्ञानमेव विज्ञानं तत्कर्म परमं शुभम् उभावपि विभक्तौ तौ न तु संप्राप्तिकारकौ । युक्ताभ्यां भगवत्प्राप्तिः संसारफलमन्यथा ॥४६॥ तच्छास्त्रमेव सच्छात्रं तदीया एव पण्डिताः । शोच्या हि भगवत्पादपरिचर्याविधि विना ॥५०॥ कृतकृत्यधियो मूढाः अहो हतमिदं जगत् । इत्यादिसात्त्विकज्ञाननिश्चयेन दृढीकृताः ॥५१॥ ||४८|| २७६७
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy