________________
२७६६
शाण्डिल्यस्मृतिः जपसङ्खथानुगणनव्यापारेण पवित्रतः। युक्तस्तथा शुभैरन्यैश्शुद्धः पाणितलो मतः ॥३०॥ भगवन्मन्दिरं वृद्धान् पूज्यानन्यांश्च मङ्गलान् । प्रतिप्रसारणं मोहान् भूमिघातं पलायनम् ॥३१॥ सर्वोपकरणानां च सर्वेषां प्राणिनां तथा। स्पर्शनं लञ्चनं चापि तथान्या अपि दुष्क्रियाः ॥३२॥ विसृज्य भगवत्कर्म सिद्धयर्थ गमने रतम् । तथा भागवतस्यार्था सिद्धयर्थं च विशेषतः ॥३३॥ प्रदक्षिणक्रियासक्तः तीर्थयात्रापरं तथा । दर्शनार्थ तथा नित्यं कर्मवानुभवाय च ॥३४॥ दिव्यायतनयात्रायामभियुक्त मृदुक्रमम् । महाभागवतानां च करसंस्पर्शवर्जितम् ॥३॥ सद्भक्तानामनन्यानां पूजार्थ दर्शनाय च । सत्वरं चैवमादीनि कुर्वन् पादद्वयं शुभम् ॥३६॥ उच्चारं धंसनं कुर्वन् कालएव च नान्यथा। गुप्त च सर्वदा शुद्ध पायुस्थानं विदुर्बुधाः ॥३७॥ काले निजस्त्रीसंसर्गरसयोगानुवृत्तिमान् । अन्यदानुद्वणं गुप्तमुपस्थं शुद्धमूत्रितम् ॥३८॥ शिरःकण्ठाक्षिनासादिमलनिर्हरणेऽनया। शुद्धिहस्य सा सद्भिस्सर्वाङ्गीणेति कीर्त्यते ॥३६॥ धर्महानिर्न कर्त्तव्या कर्तव्यो धर्म सङ्ग्रहः । धर्माधर्मों हि सर्वेषां सुखदुःखोपपातको ॥४०॥