SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २७६४ शाण्डिल्यस्मृतिः रहस्यमेतद्विज्ञानं भक्तानां हितमेव च। अतः प्रमाणं भक्तानां सारं सर्वागमेषु च ॥ ८॥ कुटुम्वाश्रममाश्रित्य तथा कालक्रमेण च । वक्ष्याम्येव समाचारान् मुख्यास्ते हि कुटुम्बिनः ॥६॥ आचारं मंगलोपेतं संक्षेपात्प्रब्रवीमि वः। अनन्यमनसस्सर्वे शृणुध्वं मुनिपुङ्गवाः ॥१०॥ पञ्चेन्द्रियस्य देहस्य बुद्धश्च मनसस्तथा । द्रव्यदेशक्रियाणां च शुद्धिराचार इष्यते ॥१॥ वक्ष्यमाणस्य सूत्रं हि स्तोके श्लोकोऽयमीरितः। संक्षेपविस्तराभ्यां च व्याख्यानमिदमुच्यते ॥१२॥ प्रतिषिद्ध ध्वसक्त हि यत्सक्तं शुद्धषु साधुषु । भगवद्विषयेष्वेव शुद्ध तच्छ्रोत्रमुच्यते ॥१३॥ स्पृश्यमस्पृशन्त्येवास्पृश्यं स्पृश्यमेव च। तत्राप्यलोलुपा सद्भि स्त्वक्शुद्धोति निगद्यते ॥१४॥ पाषण्डपतिाद्यषु न पतन्ति कदाचन । अरूक्षा संपतंती दृक्शुद्धा भागवतादिषु ॥१॥ भोज्यानेव रसाबस्याञ्जात्यन्द्ध च पलारसे । काले मितं तु सा जिह्वा परिशुद्ध तिकीयते ॥१६॥ अमेध्य गन्धादाक्षिप्ता मेध्यगन्धेषु योजिता । युक्त वलोलुपानासा सेह शुद्धोति कीर्त्यते ॥१७॥ द्विविधा देहशुद्धिश्च कर्मेन्द्रियवशात्तथा । सर्वाङ्गीणा च तद्युग्मं विविध्याद्यानुमन्यते ॥१८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy