SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीगणेशाय नमः॥ * शाण्डिल्यस्मृति * -~-~ अथ प्रथमोऽध्यायः श्रीमत्तोदगिरेर्मुनि श्रीमत्यायतने हरेः। शाण्डिल्यऋषिमासीनं प्रणम्य मुनयोऽब्रुवन् ॥१॥ श्रीमदेकायनं शास्त्रं श्रुतं गुह्य सनातनम् । ज्ञातं च सर्व वेदानां अन्तस्सारमिदंत्विति ॥२॥ निवृत्तं वैदिकं कर्म यत्प्रोक्तं भवभेषजम् । पक्षकालात्मकं ज्ञानं तच्च ब्रह्मकदैवतम् ॥३॥ कुटुम्बाश्रमनिष्ठानां पञ्चकालनिषेविणाम् । आचारं त्वन्मुखाम्भोजाच्छ्रोतुमिच्छामहे वयम् ॥४॥ शाण्डिल्योऽपि नमस्कृत्य मङ्गलायतनं हरिम् । अब्रवीत्समुनिश्रेष्ठान् श्रेष्ठकर्मा महामुनिः ॥५॥ बहुशः पूर्वमेवायं समाचारो मयेरितः। पदार्थानधिकृत्यैव शास्त्रे सप्त संस्थितान् ॥६॥ महाविस्तररूपोऽयमाचारः पञ्चकालिनाम् । संक्षेपात्प्रब्रवीम्यद्य यथाशास्त्रं यथामति ॥७॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy