________________
२७६२
नारायणस्मृतिः फलाष्टकप्रमाणेन तण्डुलेनहतिः पचेत् । गोमूत्रे विनिवेद्य व हरये परमात्मने ॥६॥ तदेव भुक्त्वा साया स्वपेद्वः दक्षिणाशिरः। एवं षण्मासकृद्विप्रः पूर्ववतच्छुद्धिमाप्नुयात् ॥१०॥ ततो गङ्गाजले स्नात्त्वा सेतुदर्शनमेव वा। कृत्वा ततः पुनः कर्म कृत्वा शुद्धिमवाप्नुयात् ॥११॥ स्वकर्मपरकर्माहों भवेदेव न संशयः। एवं सम्यक् समादिष्टं श्रुत्वा नारायणो मुनिः ॥१२॥ विच्छिन्नसंशयो भूत्वा परमानन्दनिर्भरः । मेरुपृष्ठमुपागम्य तपश्चर्तुं ययौ मुनिः ॥१३॥ इति श्रीनारायणस्मृतौ कलौवर्ण्यकर्मप्रायश्चित्तवर्णनंनाम
नवमोऽध्यायः।