SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ अथ नवमोऽध्यायः धनहीनाय प्रायश्चित्तवर्णनम् नारायण उवाच । भगवन् सर्वधर्मज्ञ शरणागतवत्सल । अकिञ्चनानामार्त्तानां कलिवयंकृतां नृणाम् ॥१॥ कथं निष्कृतिरादिष्टा वद मे शिष्यवत्सल । दुर्वासा उवाच। तात ते कथयाम्यद्य शृगु वात्सल्यगौरवात् ॥२॥ अत्यन्तात्र्तों यदि ब्रह्मन् अधनः कलिवर्ण्यकृत् । शरणं यदि संप्राप्तः प्रायश्चित्तमिदं वदेत् ॥३॥ सशिखं वपनं कृत्वा नित्यकर्मपरायणः। पुण्यतीर्थे हृदे वाऽपि पुष्करिण्यामथाऽपिवा ॥४॥ आकण्ठजलसम्मग्नः प्रामुखस्त्वघमर्षणम् । शिरस्यञ्जलिमाधाय जप्त्वा स्नानं समाचरेत् ॥५॥ पुनर्जप्त्वा पुनस्स्नात्वा पुनजपमथाचरेत् । एवं मध्याह्नपर्यन्तं प्राङमुस्वस्स्नानमाचरेत् ॥६॥ माध्याह्निकं ततः कृत्वा समाराध्येष्टदेवताम् । ततः प्रत्यङ्मुखो भूत्वा पूर्ववत्स्नानमाचरेत् ॥७॥ साया समनुप्राप्ते तटमुत्तीर्य वाग्यतः। न संमृजेच्छरीराणि वाससा वाऽपिपाणिना ॥८॥
SR No.032671
Book TitleSmruti Sandarbh Part 05
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages768
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy