________________
२७६०
नारायणस्मृतिः तदद्य तव वक्ष्यामि रहस्यमिदमुत्तमम् । यदा प्रवृत्तरत्वेतस्मिन् तदिनं परिगण्य च ॥६॥ चान्द्रायणद्वयं नित्यं कर्तव्यमविशङ्कया । पूर्वोत्तराङ्गसंयुक्त अब्लिङ्गशतमन्त्रितम् ॥१०॥ सहस्रकलशस्नानं पञ्चवारुणहोमकम् । कूश्मा(म)ण्डगणहोमानां शतं पाहि त्रयोदशैः ॥११॥ शतं तु विरजाहोमं गायत्रीशतहोमकम् । तिलहोमसहस्र श्च गर्भ च वटभूगवाम् ॥१२॥ मज्जनं गोमयदे गोदानं द्वादशाचरेत् । दशदानं भूरिदानं सहस्रब्रह्मभोजनम् ॥१३॥ एवमादि यथाशास्त्रं धनव्ययमचिन्त्य तु । सन्तुष्टचित्तः कृत्वा (सततं)शुद्धिमाप्नोत्यसंशयः ॥१४॥
स्वकर्मपरकार्माहों भवेदेव न संशयः । इति श्रीनारायणस्मृतौ कलावष्टविधवर्ण्यकर्म प्रायश्चित्तवर्णनंनाम
अष्टमोऽध्यायः।