________________
अथाष्टमोऽध्यायः अष्टनिषिद्धकर्मणां प्रायश्चित्तवर्णनम्
नारायण उवाच । भो भो ब्रह्मन् वदस्खाद्य विस्तरेण ममाधुना। अबुद्धथा बुद्धिपूर्व वा कलिवानिमान्द्विजः ॥१॥ कृत्वा ततः परंभूयः पश्चात्पापपरायणः। शरणं यदि संप्राप्तः कथं निष्कृतिरुच्यते ॥२॥ केनैव विधिना सन्यग् बन्धुमध्ये प्रवेशनम् । किं कृत्वा मुच्यते पापात् कथं कर्हिता भवेत् ॥३॥ एतदाचक्ष्व भगवन् संशयो जायते महान् ।
दुर्वासा उवाच । शृणु नारायण श्रीमन् गदतो मम विस्तरात् ॥४॥ गङ्गास्नानं वर्षमात्रं मासं सेतुनिमज्जनम् । साङ्गं च विधिवत्कृत्वा व्यवहार्यो भवेदिह ॥५॥ भवेत्स्वकर्ममात्रस्य भविता त्वहता द्विज । परकर्मणि नैवाहः भवेदेव न संशयः ॥६॥ तस्मादिमान कलियुगे वानष्टौ ब्रुवन्ति हि । असाध्यत्वात्कलौ काले द्रव्यव्ययविशेषतः ॥७॥ यदि सर्वस्वदानेन चित्तं चरितुमिच्छति । तदाऽसौ सर्वकर्माहों भवेदेव न संशयः ॥८॥