________________
२७८८
नारायणस्मृतिः भिक्षवस्सर्ववर्णेषु भैक्षाचयं चरन्तु च । दीर्घकालासहा वृद्धाश्चरन्तु भृगुपातनम् ॥२४॥ काममग्नीन् परित्यज्य तीर्थसेवां चरन्तु च । इत्याकर्ण्य च तद्वाक्यं वेपमाना महर्षयः ॥२॥ नौयात्राद्यत्वष्टकर्मानुजानन्ति दुःखिताः।। ततो विसृज्य भूपालो महर्षीनमितौजसः ॥२६॥ शशास पूर्ववत् पृथ्वी परिपूर्णमनोरथः। ततः प्रभृति विप्राद्याः नौयात्राद्यष्टकर्मणि ॥२७॥ प्रवृत्ता ऋषिवाक्येन धर्मबुद्धया च मोहिताः। युगत्रयेषु यातेषु ततः प्राप्ते कलौ युगे ॥२८॥ बदरीवनमासाद्य सङ्घीभूय महर्षयः । विचिन्त्य विधियोगेन कृत्यान्येतान्यवारयन् ॥२६॥ तस्मात् कलौ विमान् धर्मान् वानाहुमहर्षयः। कलौयुगे तु संप्राप्त नौयात्रादि करोति यः ॥३०॥ पतित्वा निरये घोरे दुःखमेति महत्तरम् । तस्मादिमान् कलौधर्मान् वानाहुमहर्षयः ॥३१॥ इमान् कृत्वा कलियुगे निष्कृतिर्न विधीयते । यदि निष्कृतिमापन्नः सेतुस्नानादिना कचित् ।।३२॥ तथाऽपि न परिग्राह्यः पापबाहुल्यकं यतः । किमन्यच्छ्रोतु कामोऽसि वदस्व द्विजनन्दन ॥३३।। इति श्रीनारायणस्मृतौ नौयात्राद्यष्टकर्मणांनिषेधोनाम
सप्तमोऽध्यायः।