________________
वेनसमीपे सानुरोधं ऋषीणां समावेदनवर्णनम् २७८७ शप्तो यदि भवेदेष राज्यं भूयादनायकम् । अशप्तश्चेद्भवेत्पीडा कथं कार्यमितः परम् ॥१४॥ इति चिन्त्य (?) महात्मानः सङ्घीभूय सभान्तरे । वेनं महीपतिं व युः विप्राः प्राणपरीप्सवः ॥११॥ भो भो वेन महीपाल किमर्थं नः प्रबाधसे । अशास्त्रीयानिमान् कृत्वाऽमहर्षिकथितान् प्रभो ॥१६।। निपातयसि नो घोरे निरये किं फलं तव । ऋषिभाषितमेवाद्य करिष्यामो महीपते ॥१७॥ नान्यत् किञ्चित् करिष्यामः प्राणैः कण्ठगतैरपि । एतच्छ्र त्वाऽथ भूपालो वैनः क्रोधपरिप्लुतः ॥१८॥ अष्टादशसहस्रं तु ऋषीनानाय्य सत्वरम् । स्तम्भेषु पङ्क्तिशो बद्ध्वा केशरभिहनत्स्वयं ॥१९॥ तेन संपीड्यमानास्ते घोषयांचक्रिरे नृपम् । भो भो राजन् महीपाल किमर्थं नः प्रवाधसे ॥२०॥
॥ वेनउवाच । अमनोरञ्जकान्यद्य शास्त्राणि ( रचितानि ) हि । रञ्जकान्येव सर्वेषु वध्वं तत्प्रियं मम ॥२॥ नानादेशेषु विप्राद्याः नौयानात्प्रचरन्तु भोः। विधवापुनरुद्वाहं चरन्तु पृथिवीतले ॥२२॥ प्रचरन्तु पशोहिं सां मधुपर्के द्विजातयः । शूद्रगेहेषु भुंजन्तु द्विजगेहे पचन्तु ते ॥२३॥