________________
सहस्रकलशस्थापनेपापादिदूरीकरणाथवर्णनम् २७८३ एकं कलशमादाय स्थापयेबीहिमध्यतः । परितश्चाष्टकलशान् विरलान् परिकल्पयेत् ॥४०॥ ततो विंशतिसङ्ख्याकान् द्वात्रिंशत्सङ्ख्यकांस्ततः। चत्वारिंशञ्च कलशान् चक्राकारान्यथाक्रमम् ॥४॥ ततः शिरःप्रदेशे तु प्राच्यादिचतुरोन्यसेत् । मध्ये त्वेकं तु संस्थाप्य पार्श्वयोरुभयोरपि ॥४२॥ कलशत्रितयं दक्षे वामे च कलशत्रयम् । चक्रस्य दक्षिणे पार्वे कलशानां तु पञ्चकम् ॥४३॥ विन्यस्य मध्यमे त्वेकं तथैकं शिरसि न्यसेत् । ततस्त्वधः प्रदेशे तु रेखाद्वयसमाकृतीन् ॥४४॥ कलशान्दश विन्यस्य तथैवोत्तरतश्चरेत् । चक्रस्याधः प्रदेशे तु स्थाप्यैकं कलशं ततः ॥४॥ परितः परिकल्प्याथ कलशान्षड्यथाक्रमम् । पार्श्वयोरुभयोस्तद्वत् प्रत्येकं कलशद्वयम् ॥४६॥ अधस्तात्कलशानां तु षट्कस्य त्रितयं तथा । अधस्तात्कलशद्वन्द्व स्थापयेद्विप्रसत्तमः ॥४७॥ एवं कृते भवेत्स्पष्टं साक्षाच्चक्राकृतिः क्रमात् । ईशान्यादिचतुर्दिक्षु कल्पयेदेवमेव हि ॥४॥ पञ्चचक्राकृतिरियं महापापप्रणाशिनी । उपपातकदोषनी अतिपातकवारिणी ॥४॥ दुर्देशगमने चैव दुःखीसङ्गमे(मके)षु च । समुद्रलचने चैव नौयानमवलम्ब्य च ॥५०॥