________________
पापसमाचारस्यगतिवर्णनम् २७८१ भुक्त्त्वान्ते दिवमासाद्य स्वर्गादिसुखमेष्यति । सोऽयंकालो मिश्रसत्त्वराजसो यदि वै भवेत् ॥१६॥ सत्त्वराजससम्मिश्रो जायते भुवि मानवः । भोगासक्तः कचित्काले कचित्सात्त्विककृत्यवान् ।।२०।। अन्ते स्वर्गसुखं भुक्त्वा ब्रह्मणा सह मुच्यते । तस्य प्रवेशकालस्तु तामसो यदि वै भवेत् ॥२॥ तमसा मूढचित्तस्तु जायते भुवि मानवः । नित्यं कलहकारी च नित्यं द्रौहैकतत्परः ॥२२॥ परदारपरद्रव्यपरिग्रहपरायणः। . नित्यं पापसमाचारः परत्रेह न शर्मकृत ॥२३॥ देहान्ते नरकं भुक्त्वा जायते भुवि कुत्सितः। . कलिस्तु तामसाधारः प्रायेणात्र तु तामसाः ॥२४।। जनिष्यन्ति विशेषेण सत्त्वोद्रिक्ताः कचित्कचित् । सर्वशक्तिक्षयकरः कलिर्दोषनिधिस्ततः ॥२॥ तस्माद्ब्रतोपवासाद्य कलौ नैव समाचरेत् । प्रत्याम्नायादिरूपेण प्राजापत्यादिकं चरेन ॥२६॥ द्वितीयवर्षमारभ्य यावद्विंशतिवत्सरम।। महापापोपपापादि युक्तमत्त्वातॊ भवेद्यदि ॥२७|| पूर्वोक्तहोमसंयुक्तमघमर्पणमेव च।। सहस्रकलशस्नानमलिङ्गशतमजनम् ॥२८॥ पञ्चगव्यप्राशनं च सर्व कृत्वा विशुद्धयति । एवं यः कुमते सम्यक सर्वपापैः प्रमुच्यते ॥२६।।